शुक्रवार, 25 मार्च 2022

महाविद्या पाठ

अथ दुर्गोपासनासिद्ध महाविद्यापाठ
  ।। श्री गणेशाय नमः ॥ 
ॐ अस्य श्रीनवदुर्गात्रिपुरसुन्दरी महामन्त्रस्य किरातरूपधर ईश्वर ऋषि : अनुष्टुप् छन्द अन्तर्यामी नारायण : किरातरूप धरेश्वरो नवदुर्गागायत्री | देवता ॐ बीजं स्वाहा शक्तिःक्लीं कीलकं मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥ हंसिनी ह्रां अंगुष्ठाभ्यां नमः ॥ शङ्खिनी ह्रीं तर्जनीभ्यां नमः ॥ चक्रिणी हूं मध्यमाभ्यां नमः ॥ गदिनी हैं अनामिकाभ्यां नमः ॥ शरिणी ह्रौं कनिष्ठिकाभ्यां नमः ॥ त्रिशूलधारिणी ह्रः करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः ॥ हंसिनी ह्रां हृदयाय नमः । शङ्खिनी ह्रीं शिरसे स्वाहा ॥ चक्रिणी हूं शिखायै वषट् ॥ गदिनी हैं कवचाय हुम् ॥ शरिणी ह्रौं नेत्रत्रयाय वौषट् ॥ त्रिशूलधारिणी हः अस्त्राय फट् ॥ ॐ भूर्भुवः स्वरोम् इति दिग्बन्धः ॥ अथ ध्यानम् ॥ अरिशङ्खकृपाण खेटबाणान्सुधनुष्कशूलमथकर्तरीं दधाना ॥ भजतां महिषोत्तमाङ्गसंस्था नवदूर्वा सदृशीश्रियेऽस्तु दुर्गा ॥ हेमप्रख्यामिन्दु खण्डान्तमौलिं शङ्खारिष्टाभीतिहस्तां त्रिनेत्राम् ॥ हेमाब्जस्थां पीतवर्णां प्रसन्नां देवीं दुर्गा दिव्यरूपां नमामि ॥ ॐ सह नाववतु सहनौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनाधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ हरिः ॐ ॥ अथपञ्चपूजा ॥ ॐ लं पृथिव्यात्मने गन्धं समर्पयामि ॥ ॐ हं आकाशात्मने पुष्पं समर्पयामि ॥ ॐ यं वाय्वात्मने धूपं समर्पयामि ॥ ॐ रं अग्न्यात्मने दीपं समर्पयामि ॥ ॐ वं अमृतात्मने अमृत नैवेद्यं समर्पयामि ॥ ॐ ऐं ह्रीं श्रीं उत्तिष्ठ पुरुष किं स्वपिषिभयं मे समुपस्थितम् ॥ यदि शक्यमशक्यं वा तन्मे भगवति शमय शमय स्वाहा ॥ ॐ नमश्चण्डिकायै ॥ हेतुकं पूर्वपीठे तु आग्नेय्यां त्रिपुरान्तकम् ॥ दक्षिणेचाग्निवैतालं नैर्ऋत्यां यम जिह्नकम् ॥ कालाख्यं वारुणे पीठे वायव्यां तु करालिनम् ॥ उत्तरे एकपादं तु ईशान्यां भीमरूपिणम् ॥ आकाशे तु निरालम्बं पाताले वडवानलम् ॥ यथा ग्रामे तथाऽरण्ये रक्ष मां बटुकस्तथा ॥ सर्वमंगलमाङ्गल्ये शिवे सर्वार्थसाधिके ॥ शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥ ॐ ह्रीं श्रीं दुं दुर्गायै नमः ॥ प्रयोगविषये ब्राह्मण्यै नमः ॥ वारुणि खल्वि माहेश्वर्यै नमः ॥ कुल्यवासिन्यै कुमारिण्यै नमः ॥ जयन्तीपुरलाहि वाराहिण्यै नमः ॥ अष्टमहाकालि माहेश्वर्यै नमः ॥ चित्रकूट इन्द्राण्यै नमः ॥ त्रिपुर ब्रह्मचारिण्यै नमः ॥ एकवृक्षशुभिण्यै महालक्ष्म्यै नमः ॥ | त्रिपुरब्रह्माण्डनायक्यै नमः ॥ एतानि क्षं क्षं त्रैलोक्यवशंकराणि ॥ बीजाक्षराणि ॐ ह्रीं कुरु कुरु हुँ फट् स्वाहा ॥ ॐ ऐं ह्रीं श्रीं सकलनरमुख भ्रमरीम् ॥ ॐ क्लीं ह्रीं सकलराजमुखभ्रमरीम् ॥ ॐ क्रौं सौं सकलदेवतामुख भ्रमरीम् ॥ ॐ क्लीं क्लीं सकलकामिनीमुखभ्रमरीम् ॥ ॐ ई सौः सकल देशमुख भ्रमरीम् ॥ ॐ ह्रीं क्लीं त्रैलोक्यचित्तभ्रमरीम् ॥ ॐ क्षं क्षां क्षिं क्षीं क्षुं क्षूं क्षें क्षैं क्षों क्षौं क्षं क्षः ॥ उग्रभैरवादि भूतप्रेत पिशाच चित्त भ्रमरीं हुं भुं हुं क्लीं राजमन्त्रयन्त्रतन्त्र भ्रमरीं हुं क्षुं क्लीं सिद्धमन्त्रयन्त्रतन्त्रभ्रमरीं हुं क्षुं हुं क्लीं साध्यमन्त्रयन्त्रतन्त्रभ्रमरीं सकल सुरासुर सर्वमन्त्रयन्त्रतन्त्र भ्रमरीं सर्वक्षोभिणी सर्वक्लेदिनी सकलमनोन्माद करी आं ह्रीं क्रौं परमकल्याणी महायोगिनी ॥ ॐ महाविद्यांप्रवक्ष्यामि महादेवेन निर्मिताम् ॥ चिन्तितां किरातरूपेण मारणां हृदयनन्दिनीम् ॥ उत्तमा सर्वविद्यानां सर्वभूत वशंकरी । सर्वपापक्षयकरी सर्वशत्रुनिवारिणी ॥ ॐ कुलकरी गोत्रकरी धनकरी धान्यकरी बलकरी यशस्करी विद्याकरी उत्साहबलवर्धिनी भूतानां | विजृम्भिणी स्तम्भिनी मोहिनी द्राविणी सर्वमन्त्र प्रभञ्जिनी सर्वविद्या प्रभेदिनी सर्वज्वरोत्सादकरी ऐकाहिकं द्व्याहिकं त्र्याहिकं चातुर्थिकमर्द्धमासिकं मासिकं | द्विमासिकं त्रिमासिकं षाण्मासिकं सांवत्सरिकं वातिकं पैत्तिकं श्लैष्मिकं सान्निपातिकं सन्ततज्वरं शीतज्वरं उष्णज्वरं विषमज्वरं तापज्वरं च गण्डमालालू ततालु वर्णानां त्रासिनी सर्पाणां त्रासिनी सर्वान् त्रासिनी शिरः शूलाक्षिशूल कर्णशूल दन्तशूल बाहुशूल हृदयशूल कुक्षिशूल पक्षशूल गुदशूल गुल्मशूल | लिङ्गशूल योनिशूल पादशूल सर्वाङ्गशूल विस्फोटकादि इति आत्मरक्षा परोक्षरक्षा प्रत्यक्षरक्षाअग्निरक्षाअघोररक्षा वायुरक्षाउदकरक्षा महान्धकारोल्का विद्युदनिलचरो शस्त्रास्त्रे मां रक्ष रक्ष स्वाहा ॥ महादेवस्य तेजसां भयंकराविष्टदेवता बन्ध यामि पन्थानुगतचौराद्रक्षते बन्धकस्य कण्टकं बन्धयामि महादेवस्य पञ्चशीर्षेण पाणिना महादेवस्य तेजसा सर्वशूलान्कहपिङ्गलेन कण्टक मयरुद्राङ्गी ॐ अं आं मातङ्गी इं ई मातङ्गी उं ऊं मातङ्गी ऋ ॠ मातङ्गी लूं लूं मातङ्गी एं ऐं मातङ्गी ओं औं मातङ्गी अं अः मातङ्गी स्वर स्वरब्रह्मदण्ड विश्वर विश्वर रुद्रदण्ड प्रज्वल प्रज्वल वायुदण्ड प्रहर प्रहर इन्द्रदण्ड भक्ष भक्ष निर्ऋतिदण्ड हिलि हिलि यमदण्ड नित्योपवादिनि हंसिनी शङ्खिनी चक्रिणी गदिनी शूलिनी त्रिशूलधारिणी हुं फट् स्वाहा ॥ आयुर्विद्यां च सौभाग्यं धान्यं च धनमेव च ॥ सदाशिवं पुत्रवृद्धिं देहि मे चण्डिकेशुभे ॥ अथातो मन्त्रपादा भवन्ति ॥ ॐ छायायै स्वाहा ॥ चतुरायै स्वाहा ॥ हलि स्वाहा ॥ पीलि स्वाहा ॥ पिलि स्वाहा ॥ हरं स्वाहा ॥ हरंहरं स्वाहा ॥ गन्धर्वाय स्वाहा ॥ गन्धर्वाधिपतये स्वाहा ॥ यक्षाय स्वाहा ॥ यक्षाधिपतये स्वाहा ॥ रक्षसे स्वाहा ॥ रक्षोऽधिपतये स्वाहा ॥ ॐ भूः स्वाहा ॥ ॐ भुवः स्वाहा ॥ ॐ स्वः स्वाहा ॥ ॐ भुर्भुवः स्वः स्वाहा ॥ उल्कामुखी स्वाहा ॥ रुद्रमुखी स्वाहा ॥ रुद्रजटी स्वाहा ॥ ब्रह्मविष्णुरुद्रतेजसे स्वाहा ॥ या इमा भूतप्रेतपिशाच राक्षस नवग्रह भूतवेतालशाकिनीडाकिन्यः कूष्माण्डवासश्चत्वारो राजपुरुषः कलहपुरुषो वा तेषां दिशं बन्धयामि ॥ दुर्दिशो बन्धयामि ॥ हस्तौ बन्धयामि ॥ चक्षुषी बन्ध यामि ॥ श्रोत्रे बन्धयामि ॥ जिह्वां बन्धयामि ॥ घ्राणं बन्धयामि ॥ बुद्धिं बन्धयामि ॥ गतिं बन्धयामि ॥ मतिं बन्धयामि ॥ अन्तरिक्षं बन्धयामि ॥ आकाशं बन्धयामि ॥ पातालं बन्धयामि ॥ यममुखेन पञ्चयोजनविस्तीर्ण बन्धयामि ॥ रुद्रो बध्नातु ॥ रुद्रमण्डलं रुद्रः सहपरिवारो देवताप्रत्यधिदेवतासहितं रुद्रमण्डलं प्रत्यक्षं बन्ध बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्य महावज्रकवचायास्त्राय राजचौरसर्पसिंहव्याघ्राग्नि मम सर्वोपद्रव नाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥ उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ प्राच्यां दिशि | इन्द्रो देवता ऐरावतारूढो हेमवर्णो वज्रहस्त इन्द्रो बध्नातु ॥ इन्द्रमण्डलमिन्द्रः सहपरिवारो देवताप्रत्यधिदेवतासहितमिन्द्रमण्डलं प्रत्यक्षं बन्धबन्ध मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्य महावज्र कवचायास्त्रायराजचौर सर्पसिंह व्याघ्राग्नि ममसर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्रायः नमः ॥ ॐ नमो भगवते रुद्राय | आग्नेय्यां दिशि अग्निर्देवता मेषारूढो रक्तवर्णो ज्वालाहस्तो ऽग्निर्बध्नातु ॥ अग्निमण्डलमग्निः सहपरिवारो देवताप्रत्यधि देवतासहितमग्नि मण्डलं प्रत्यक्षं बन्ध बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्य महावज्रकवचायास्त्रायराजचौरसर्पसिंह | व्याघ्राग्नि मम सर्वोपद्रव नाशनाय ॥ ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हु फट् स्वाहा ॥ ॐ अग्निदूतं वृणीमहे होतारं विश्ववेदसम् ॥ अस्य यज्ञस्य सुक्रतुम् ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ याम्यां दिशि यमो देवतामहिषा रूढो नीलवर्णो दण्डहस्तो यमो बध्नातु | यममण्डलंप्रत्यक्षं बन्धबन्ध ममसपरिवार कस्य सर्वतो मां रक्ष रक्ष अचलमचल माक्रम्याक्रम्यमहावज्रकवचायास्त्राय राज चौर सर्प सिंह व्याघ्राग्नि ममसर्वोपद्रव नाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ | यमायसोमं सुनुत यमाय जुहुताहविः ॥ यमं ह यज्ञोगच्छत्यग्नि दूतोअरंकृतः ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ नैर्ऋत्यां दिशिनिऋति मण्डलं निर्ऋतिः सहपरिवारो देवताप्रत्यधि देवतासहितं निर्ऋतिमण्डलंप्रत्यक्षं बन्धबन्ध मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्यमहावज्र कवचायास्त्रायराजचौरसर्पसिंह व्याघ्राग्निमम सर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं  फट् स्वाहा ॥ ॐ मोषुणः परापरा निर्ऋति र्दुर्हणावधीत् ॥ पदीष्टतृष्णया सह ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्रायः नमः ॥ ॐ नमो भगवते रुद्राय ॥ वारुण्यां दिशि वरुणो देवता मकरारूढः श्वेतवर्णः पाशहस्तो वरुणो बध्नातु वरुणमण्डलं वरुणः सह परिवारोदेवता प्रत्यधिदेवता सहितं वरुण मण्डलं प्रत्यक्षं बन्ध बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्य महावज्र कवचायास्त्राय राजचौरसर्पसिंहव्याघ्राग्नि मम सर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ हरि ॐ इमम्मेवरुणश्रुधी हवमद्याश्मृडय ॥ त्वामवस्युराचके ॥ ॐ तत्वायामि ब्रह्मणावन्दमानस्तदाशस्ते यजमानो हविर्भिः ॥ अहेडमानो वरुणेह बोध्युरूश समानऽआयुः प्रमोषीः ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ वायव्यां दिशि वायुर्देवता मृगारूढोधूम्रवर्णोध्वजहस्तोवायुर्बध्नातु वायुमण्डलंवायु सहपरिवारो देवताप्रत्यधि देवतासहितं वायुमण्डलं प्रत्यक्षं बन्ध बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्य महावज्रकवचाया | स्त्रायराजचौरसर्पसिंहव्याघ्राग्नि मम सर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ तव वायवृतस्पतेत्वष्टुर्जामातरद्भुत ॥ आवाँस्या वृणीमहे ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ कौबेर्यां दिशि कुबेरोदेवता अश्वारूढः पीतवर्णो गदाङ्कुशहस्तःकुबेरो बध्नातु कुबेरमण्डलं कुबेरः सहपरिवारो देवता प्रत्यधि देवतासहितं कुबेरमण्डलं प्रत्यक्षं बन्ध बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्य महावज्र कवचायास्त्राय राजचौरसर्पसिंहव्याघ्राग्नि ममसर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति ॥ सादन्यंविदथ्यंसभेयंपितृश्रवणं यो देदाशदस्मै ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ ईशान्यां दिशि ईशानो देवता वृषारूढः स्फटिकवर्णस्त्रिशूलहस्त ईशानो बध्नातु ईशानमण्डलमीशान : सहपरिवारो देवता प्रत्यधि देवतासहितमीशान मण्डलं प्रत्यक्षं बन्ध बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमा क्रम्याक्रम्यमहावज्र कवचायास्त्राय राजचौरसर्पसिंहव्याघ्राग्नि मम सर्वोपद्रव नाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम् ॥ पूषानो यथा वेदसामसद् वृधेरक्षिता पायुरदब्धः | स्वस्तये ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ ऊर्ध्वायां दिशि ब्रह्मादेवता हंसारूढो रक्तवर्णः कमण्डलुहस्तो | ब्रह्माबध्नातु ब्रह्ममण्डलं ब्रह्मा सहपरिवारोदेवताप्रत्यधि देवतासहितं ब्रह्ममण्डलं प्रत्यक्षं बन्ध बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्य महावज्र कवचायास्त्रायराजचौरसर्पसिंहव्याघ्राग्नि ममसर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषोमृगाणाम् ॥ श्येनो गृध्राणांस्वधितिर्वनानां सोमः पवित्र मत्येति रेभन् ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवतरुद्राय ॥ अधस्ताद्दिशि वासुकिर्देवता कूर्मारूढः पद्महस्तो वासुकिः बध्नातु वासुकि मण्डलं वासुकिः सहपरिवारो देवताप्रत्यधिदेवता सहितं वासुकिमण्डलं प्रत्यक्षं बन्ध बन्ध मम सपरिवारकस्य सर्वतो मां रक्षरक्ष अचलमचलमाक्रम्याक्रम्य महावज्रकवचायास्त्राय राजचौरसर्पसिंहव्याघ्राग्निमम सर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हुं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ नमोस्तु सर्पेभ्यो ये के च पृथिवीमनु ॥ येऽअन्तरिक्षेयेदिवितेब्भ्य सर्पेभ्यो नमः ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ अवान्तरस्यां दिशिविष्णु र्देवता गरुड़ारूढः श्यामवर्णश्चक्रहस्तौ विष्णुर्बध्नातु विष्णुमण्डलं विष्णुः सहपरिवारो देवताप्रत्यधिदेवतासहितं विष्णुमण्डलं प्रत्यक्षं बन्ध बन्ध मम | सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्य महावज्र कवचायास्त्राय राजचौरसर्पसिंहव्याघ्राग्नि ममसर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं ह्र श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ इदं विष्णुर्विचक्रमेत्रेधा निदधे पदम् । समूढमस्य पासुरे स्वाहा ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ प्राच्यां दिशि इन्द्रः सहपरिवारो देवताप्रत्यधि देवतास्तद्दिक्षुत्रिशूलको नाम राक्षसस्तस्य अष्टादश कोटिभूतप्रेतशाकिनीडाकिनी काकिनीहाकिनीयाकिनीराकिनीवैतालकामिनी ग्रहान बन्धयामि मम | सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्यमहावज्र कवचायास्त्राय राजचौरसर्पसिंह व्याघ्राग्नि मम सर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ आग्नेय्यां दिशि अग्निः सहपरिवारोदेवताप्रत्यधिदेवतास्तद्दिक्षु मारीचकोनामराक्षसस्तस्य अष्टादश कोटिभूत प्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनीराकिनीयाकिनी वैतालकामिनीग्रहान् बन्धयामि मम सहपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्यमहावज्रकवचायास्त्रायराजचौरसर्पसिंहव्याघ्राग्नि ममसर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय । याम्यां दिशि यमः सहपरिवारो देवताप्रत्यधि देवतास्तद्दिक्षु एकपिङ्गलको नाम राक्षसस्तस्यअष्टादश कोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनी हाकिनीराकिनीयाकिनीवैतालकामिनीग्रहान्बन्ध यामि मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्यमहावज्र कवचायास्त्राय राजचौरसर्पसिंह व्याघ्राग्नि ममसर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ नैर्ऋत्यां दिशि निर्ऋतिः सहपरिवारो देवताप्रत्यधिदेवतास्तद्दिक्षु | सत्यकोनामराक्षसस्तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीकाकिनी डाकिनीकाकिनीहाकिनीराकिनीयाकिनीवैताल कामिनी ग्रहान बन्धयामि मम | सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्यमहावज्रकवचाया स्त्राय राजचौरसर्पसिंहव्याघ्राग्निममसर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ | रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ प्रतीच्यां दिशि वरुणः सह परिवारो देवताप्रत्यधि | देवतास्तद्दिक्षु लम्बको नाम राक्षसस्त स्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षस शकिनीडाकिनीकाकिनीहाकिनी राकिनीयाकिनीवैतालकामिनी ग्रहान बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्यमहा वज्रकवचाया स्त्रायराजचौरसर्पसिंह व्याघ्राग्नि ममसर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्व बीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ वायव्यां दिशि वायुः सहपरिवारो देवताप्रत्यधिदेवतास्तद्दिक्षु प्रलम्बको नाम राक्षसस्तस्याष्टादश कोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनीराकिनीयाकिनी वैतालकामिनी ग्रहान बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्य महावज्रकवचाया स्त्राय राजचौरसर्पसिंहव्याघ्राग्नि मम सर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं ह्र श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ॐ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ कौबेर्यां दिशि कुबेर : सहपरिवारो देवताप्रत्यधिदेवतास्तद्दिक्षुअश्वालका नामराक्षसस्तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षस शाकिनीडाकिनीकाकिनी हाकिनीराकिनीयाकिनीवैतालकामिनी ग्रहान बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्य महावज्रकवचायास्त्रायराजचौरसर्पसिंह व्याघ्राग्नि ममसर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ ईशान्यां दिशि ईशानः सहपरिवारो देवताप्रत्यधिदेवतास्तद्दिक्षु उन्मत्तको नाम राक्षसस्तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनी डाकिनीकाकिनी हाकिनीराकिनीयाकिनीवैताल कामिनी ग्रहान बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमा क्रम्याक्रम्य महावज्र कवचायास्त्राय राजचौरसर्पसिंह व्याघ्राग्नि मम सर्वोपद्रव नाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ ॐ ऊर्ध्वायां दिशि ब्रह्मा सहपरिवारो देवताप्रत्यधिदेवतास्तद्दिक्षु आकाशवासीनामराक्षसस्तस्याष्टादश कोटिभूतप्रेतपिशाचब्रह्मराक्षस शाकिनी डाकिनीकाकिनी हाकिनीराकिनी याकिनीवैतालकामिनी ग्रहान बन्धयामि मम सहपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्यमहावज्र कवचायास्त्रायराजचौरसर्पसिंह व्याघ्राग्नि मम सर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ अधस्तद्दिशि वासुकिः सहपरिवारोदेवताप्रत्यधि देवतास्तद्दिक्षु पातालवासी नाम राक्षसस्तस्याष्टादश कोटि भूतप्रेतपिशाचब्रह्म राक्षसशाकिनी डाकिनीकाकिनीहाकिनीराकिनी याकिनीवैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचलमाक्रम्याक्रम्य महावज्रकवचाया | स्त्राय राजचौरसर्पसिंह व्याघ्राग्नि मम सर्वोपद्रवनाशनाय ॥ ॐ ह्रां ह्रीं हं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ | रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ अवान्तरस्यां दिशि विष्णुः सहपरिवारो देवताप्रत्यधिदेवतास्तद्दिशु महाभीमकोनाम राक्षसस्तस्याष्टादश कोटि भूतप्रेतपिशाच ब्रह्मराक्षसशाकिनीडाकिनीकाकिनी हाकिनीराकिनीयाकिनीवैताल कामिनी ग्रहान बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष अचलमचल माक्रम्याक्रम्य महावज्रकवचायास्त्रायराजचौरसर्पसिंह व्याघ्राग्नि मम सर्वोपद्रव नाशनाय ॥ ॐ ह्रां ह्रीं हूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ॥ ॐ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ॥ रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ प्राच्यां दिशि ॥ ॐ नमो भगवते इन्द्राणिवज्रहस्ताभ्यां सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुं जटी स्वाहा ॥ अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ आग्नेय्यां दिशि ॥ ॐ नमो भगवते अग्निज्वालहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुं जटी स्वाहा ॥ अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ याम्यां दिशि ॥ ॐ नमो भगवते यमकालदण्डहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुं जटी स्वाहा ॥ अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ नैर्ऋत्यां दिशि ॥ ॐ नमो भगवते निर्ऋतिखङ्ग कंकालहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुं जटी स्वाहा ॥ अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ वायव्यां दिशि ॥ ॐ नमो भगवते वायविवेधहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा ॥ अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ वारुण्यां दिशि ॥ ॐ नमो भगवते वारुणिपाशहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुं जटी स्वाहा ॥ अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ कौबेर्या दिशि ॥ ॐ नमो भगवते कौबेरीगदांकुश हस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुं जटी स्वाहा ॥ अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ ईशान्यां दिशि ॥ ॐ नमो भगवते ईशानित्रिशूलडमरुहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुं जटी स्वाहा ॥ अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ ऊर्ध्वायां दिशि ॥ ॐ नमो भगवते ब्रह्माणि कमण्डल अक्ष सूत्रांकुशहस्तैः मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुं जटी स्वाहा ॥ अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ ॐ नमो भगवते पातालवासिनिविषगर्लहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुं जटी स्वाहा ॥ अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ अवान्तरस्यां दिशि ॥ ॐ नमो भगवते श्रीमहालक्ष्मी पद्मारूढापद्महस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुं जटी स्वाहा ॥ अव ब्रह्मद्विषो जहि ॥ ॐ नमो भगवते रुद्राय नमः ॥ ॐ नमो भगवते रुद्राय ॥ शिरो रक्षतु ब्रह्माणी मुखं माहेश्वरी तथा ॥ कण्ठंरक्षतु वाराही ऐन्द्री चैव भुजद्वयम् ॥ चामुण्डा हृदयं रक्षेत्कुक्षिं रक्षेच्च वारुणी ॥ वैष्णवी रक्ष पादौ मे पृष्ठदेशेधनु र्धरी ॥ यथा ग्रामे तथा क्षेत्रे रक्षस्व मां पदे पदे ॥ सर्वमङ्गलमाङ्गल्ये शिवेसर्वार्थसा के ॥ शरण्येत्र्यम्बकेगौरिनारायणि नमोऽस्तुते ॥ ॐ ब्राह्मि माहेश्वरीकौमार वैष्णविवाराहि इन्द्राणिचामुण्डे सिद्धचामुण्डेश्वरीगणेश्वरि क्षेत्रपाल नारसिंहि महालक्ष्मि सर्वतो दुर्गे हुं फट् स्वाहा ॥ ॐ ऐं ह्रीं श्रीं दुं हुं फट् ॥ कनकवज्र वैडूर्यमुक्तालंकृतभूषणे एहि एहि आगच्छ आगच्छ मम कर्णे प्रविश्यभूतभविष्य वर्तमानकाल ज्ञानदूरदृष्टिश्रवणं ब्रूहि ब्रूहि अग्निस्तम्भन शत्रुस्तम्भन शत्रुमुख स्तम्भन शत्रुगतिस्तम्भन शत्रुमतिस्तम्भन परेषांगति सर्वमतिशत्रूणां वाग्जृम्भणं स्तम्भनं कुरु कुरु शत्रुकार्यहानिकरि मम कार्यसिद्धिकरि शत्रूणामुद्योगविध्वंसकरि वीरचामुण्डिनिहाटकहाटकधारिणी नगरीपुरीपट्टणआस्थानसंमोहनी असाध्य साधिनी ॥ ॐ ह्रीं श्रीं देवि हन हुं फट् स्वाहा ॥ ॐ आं ह्रीं सौं ऐं क्लीं हूं सौः ग्लौं श्रीं क्रौं एहि एहि भ्रमराम्बा हि सकलजगन्मोहनायमोहनायसकलाण्डजपिण्डजान् | भ्रामय भ्रामय जरा प्रजाव शंकरि संमोहय संमोहय महामाये अष्टादशपीठरूपिणि अमलवरयूं स्फुर स्फुर प्रस्फुर प्रस्फुर कोटिसूर्यप्रभाभासुरिचन्द्रजटी मां रक्ष रक्ष मम शत्रून् भस्मीकुरु भस्मीकुरु विश्वमोहिनी हुं क्लीं हुं हुं फट् स्वाहा ॥ ॐ नमो भगवते कामदेवाय इन्द्राय वसाबाणाय इन्द्र संदीपबाणाय क्लीं क्लीं संमोहनबाणाय ब्लूं ब्लूं संतापनबाणाय सः सः वशीकरणबाणाय कम्पित कम्पित  हुं फट् स्वाहा ॥ क्लीं नमो भगवते कामदेवाय श्रीं सर्वजनप्रियाय सर्वजनसंमोहनाय ज्वल ज्वल प्रज्वल प्रज्वल हन हन वद वद तप तप संमोहय संमोहय सर्वजनं मे वशं कुरु कुरु स्वाहा ॥ ॐ नमो विष्णवे ॥ ॐ नमो नारायणाय ॥ ॐ जय जय गोपीजनवल्लभाय स्वाहा ॥ सहस्रार ज्वालावर्त हन हन हुं फट् स्वाहा ॥ ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि ॥ धियो यो नः प्रचोदयात् ॥ श्रीमन्नारायणस्य चरणौ शरणं प्रपद्ये ॥ श्रीमते नारायणाय नमः ॥ उग्र वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ॥ नृसिंहं भीषणं भद्रंमृत्यमृत्युंनमाम्यहम् ॥ भगवन् सर्वविजय सहस्रारायराजित ॥ शरणं त्वां प्रपन्नेऽस्मि श्रीकरं श्रीसुदर्शनम ॥ अरुणी वारुणी चैव सविग्रहनिवारिणी ॥ सर्वकर्मकरि ॥ ॐ भूः स्वाहा ॥ ॐ भुवः स्वाहा ॥ ॐ स्वः स्वाहा ॥ ॐ भूर्भुवः स्वः स्वाहा ॥ अष्टौ ब्राह्मणान् सम्यकग्राहयित्वा ॥ ततो महाविद्यासिध्दयति ॥ अशिक्षितं नोपयुञ्जीत् ॥ अहं न जाने न च पार्वतीश एकविंशतिवाराणि परिजाप्य शुचिर्भवेत् ॥ पत्रं पुष्पं फलं दद्यात् स्त्रियो वा पुरुषोऽपि वा ॥ अवश्यं वशमित्याहुरात्मना च परेण वा ॥ महाविद्यावतां पुंसां मनः क्षेत्रं करोति यः ॥ सप्तरात्रौ व्यतीतायां शत्रूणां तद्विनश्यति ॥ ॐ कुबेर ते मुखं रौद्रंनन्दिमानन्दिम वह ॥ ज्वरं मृत्युभयं घोरं विषंनाशय मे ज्वर ॥ ॐ नमो भगवते रुद्राय हृदये अमृताभिवर्षाय मम ज्वररोग शांति कुरु कुरु स्वाहा ॥ ॐ कालकाल महाकाल कालदण्ड नमोऽस्तुते ॥ कालदण्डनिपातेन भूम्यामन्तर्हितं ज्वरं हन्ति ॥ लिखित्वा यस्तु पश्यति समुद्रस्योत्तरे तीरे मारीचो नाम राक्षसस्तस्यमूत्रपुरीषाभ्यां हुताशनं शमय शमय स्वाहा ॥ हिमवत्युत्तरे पार्श्वे चपला नाम यक्षिणी ॥ तस्या नूपुरशब्देन विशल्या भव गर्भिणी ॥ जातवेदसे सुन वाम सोममरातीयतो निदहाति वेदः ॥ स नः पर्षदति दुर्गाणि विश्वानावेव सिन्धुं दुरिताऽत्यग्निः ॥ भास्कराय विद्महे महद्युतिकराय धीमहि । तन्नः सूर्यः प्रचोदयात् ॥ ॐ तत्सवितर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ प्रतिकूलकारिणी नश्येत् ॥ अनुकूलकारिणी अस्तु ॥ महादेवी च विद्ममहे विष्णुपत्नी च धीमहि ॥ तन्नो लक्ष्मीः प्रचोदयात् ॥ ॐ बूं ह्रीं श्रीं ब्रह्मकोशजी मां रक्ष रक्ष हुं जटी स्वाहा ॥ पञ्चम्यां च नवम्यां च दशम्यां च विशेषतः ॥ पठित्वा तु महाविद्यां श्रीकामः सर्वदा पठेत् ॥ ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ॥ ईश्वरीं सर्वभूतानांतामिहो पह्वये श्रियम् । श्रीर्मे भजतु ॥ अलक्ष्मी नश्यतु ॥ यदन्ति यच्च दूरके भयं विन्दति मामिह ॥ पवमानवितज्जहि ॥ यदुत्थितं दुःखं भवति तत्सर्वं शमय शमय स्वाहा ॥ ॐ गायत्र्यै स्वाहा ॥ ॐ सावित्र्यै ॥ श्री दुर्गापासना सिद्धमहाविद्या पाठ ॥ | स्वाहा ॥ ॐ सरस्वत्यै स्वाहा ॥ तत्पुरुषाय विद्महे सहस्राक्षाय धीमहि ॥ तन्नो इन्द्रः प्रचोदयात् ॥ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ॥ तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि । तन्नो नन्दिः प्रचोदयात् ॥ तत्पुरुषाय विद्महे महासेनाय धीमहि । तन्नः षण्मुखः प्रचोदयात् ॥ तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि । तन्नो गरुडः प्रचोदयात् ॥ वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि । तन्नो ब्रह्म प्रचोदयात् ॥ नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ मन्मथेशाय विद्महे कामदेवाय धीमहि । तन्नोऽनङ्गः प्रचोदयात् ॥ वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो नारसिंहः प्रचोदयात् ॥ भास्कराय विद्महे महद्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात् ॥ वैश्वानराय विद्महे लालीलाय धीमहि । तन्नो अग्निः प्रचोदयात् ॥ कात्यायनाय विद्महे कन्यकुमारिधीमहि । तन्नो दुर्गिः प्रचोदयात् ॥ सहस्रपरमा देवी शतमूला शतांकुरा । सर्वहरतु मे पापं दूर्वा दुःस्वप्ननाशिनी ॥ ॐ काण्डात्काण्डात्प्ररो हन्ती परुषः परूषस्परि । एवानोदूर्व्वे प्रतनुसहस्त्रेण शतेन च ॥ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे । शिरसाधार | यिष्यामि रक्षस्व मां पदे पदे ॥ अत्रिणा त्वा क्रिमे हन्मि कण्वेन जमदग्निना । विश्वावसोर्ब्रह्मणा हतः कृमीणांराजा अप्येषांस्थपतिर्हतः ॥ अथो माताऽथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णाः अथो श्वेताः अथो आशातिका हताः श्वेताभिः पः सह सर्वे हताः आहरावद्य श्रुतस्य हविषो यथा तत्सत्यंयदमुंयमस्य जम्भयोः | आदधामि तथा हि तत् ॥ खण्फण्म्रसि ब्रह्मणा त्वा शपामि ॥ ब्रह्मणस्त्वा शपथेनशपामि ॥ घोरेणत्वाभृगूणांचक्षुणां प्रेक्षे ॥ रौद्रेणत्वाऽङ्गिरसामन साध्यायामि ॥ अघस्यत्वाधारया विध्यामि ॥ सूर्यः तावदितोऽ मुंनाशययोऽस्मान् द्वेष्टि यं च वयं द्विष्मः खट् फट् जहि छिन्धि भिन्धि हन्धि कट् इति वाचः क्रूराणि परिवाहिणीदं नमस्ते अस्तु मा मा हिंसीः द्विषन्तंमेऽभिनाशय तं मृत्यो मृत्यवे नय अरिष्टं रक्ष अरिष्टं भञ्ज भञ्ज स्वाहा ॥ ॐ ह्रीं कृष्णवाससेनारसिंहवदे महाभैरविज्वलज्वलविद्युज्जवलज्ज्वालाजिह्वेकरालवदने प्रत्यङ्गिरे नमो नारायणाय घ्रिणुः सूर्यादित्यों सहस्रा हुं फट् ॥ अव ब्रह्मा द्विषो जहि ॥ सर्पोलूक काक कङ्क कपोतादि वृश्चिकोग्रदंष्ट्रा करोग्रविषान्मे महाभूतप्रेतपिशाच ब्रह्मराक्षस सकलकिल्विषादिमहारोग विषान्निरोगविषं कुरु कुरु स्वाहा ॥ अक्षिस्पन्दं च दुःस्वप्नं भुजस्पन्दं च दुर्मतिम् ॥ दुश्चिह्नं दुर्गतिंरोगं भयंनाशय शांकरि ॥ महाविद्यांकृतवतो योस्माकं द्वेष्टियोऽरिष्टंस्मरतियावदेक विंशतिं कृत्वा तावदधिकं नाशय ॥ ब्रह्मविद्यामिमां देवि नित्यं सेवेत यः सुधीः ॥ ऐहि कामुष्मिकंसौख्यं सिद्धयत्येव न संशयः ॥ एनांविद्यां महाविद्यां यो दूषयति मानवः ॥ सोऽवश्यनाश माप्नोतिषण्मा सादचिरेणवै ॥ अग्रतः पृष्ठतः पार्श्वे ऊर्ध्वतोरक्षमे सदा ॥ चण्ड घण्टाविरूपाक्षी त्वांभजे जगदीश्वरीम् ॥ एवंविद्यां महाविद्यांत्रिसन्ध्यं स्तौति मानवः ॥ दृष्ट्वा जनैर्दुष्टजनाः सर्वमोह वशं गताः ॥ तामग्निवर्णां तपसा ज्वलन्तींवैरोचनींकर्मफलेषु जुष्टाम् ॥ दुर्गा देवीं शरणमहं प्रपद्ये सुतरांदुः शमनायैनमः ॥ मातर्फे मधुकैटभघ्निमहिष प्राणापहारोद्यमे | हेलानिर्मितधूम्रलोचन वधे हे चण्डमुण्डार्दिनि ॥ निःशेषीकृतरक्तबीजदनुजे | नित्येनिशुम्भापहे शुम्भध्वंसिनिसंहराशुदुरितंदुर्गे नमस्तेऽम्बिके ॥ कालदण्डपरंमृत्यु विजयाबन्धयाम्य हम् ॥ पञ्चयोजनविस्तीर्णं मृत्योश्चमुखमण्डलम् ॥ तस्माद्रक्ष महाविद्ये भद्रकालि नमोऽस्तुते ॥ अव ब्रह्मद्विषो जहि ॥ वारिजलोचनसहपारीगतिं वारया सुरकरनिकरैः पूरितमेघद्रुगानांदापिता गोपकन्यकेसहोदरवतु ॥ अव ब्रह्मद्विषो जहि ॥ ॐ ह्रीं श्रीं क्लीं सिद्धलक्ष्मी स्वाहा ॥ ॐ क्लीं ह्रीं श्रीं ॐ | आवहन्ती वितन्वाना कुर्वाणा चीरमात्मनः ॥ वासांसि मम गावश्च अन्नपाने च सर्वदा ॥ ॐ ह्रीं श्रीं क्लीं क्लूं प्रो हुं फट् स्वाहा ॥ अव ब्रह्मद्विषो जहि । ॐ सह नाववतु सह नौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ परिमाणं महाविद्या महादेवस्य सन्निधौ । एकविंशति वारेण अवश्यं सिद्धिमालभेत् । यदिसिद्धयतिनो विद्यातदुद्रो ब्रह्म भवेत् । अष्टाभ्यो ब्राह्मणेभ्योदद्यात्अवश्यंसिद्धिमालभेत् ॥ श्री ॥ स्त्रीवापुरुषो वाऽपिपापंभस्म समाचरेत् । प्रायणं स्तम्भनं चैव मारणम्ग्रहनिवारणम् । सर्व बीजस्य सिद्धिः स्यात् शान्तिकर्मणि विशेषतः ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ 
॥ क्षमा प्रार्थना ॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वाक्षमस्व परमेश्वरि ॥ १ ॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २ ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मयादेवि परिपूर्ण तदस्तुमे ॥ ३ ॥ अपराधशतं कृत्वा जगदम्बेतिच्चोच्चरेत् । यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ ४ ॥ सापराधोऽस्मिशरणं प्राप्तस्त्वां जगदम्बिके । इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ ५ ॥ अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्यूनमधिकंकृतम् । तत्सर्वंक्षम्यतां देवि प्रसीद परमेश्वरि ॥ ६ ॥ कामेश्वरि जगन्मातः सच्चिदानन्द विग्रहे । गृहाणार्चामिमांप्रीत्याप्रसीदपरमेश्वरि ॥ ७ ॥ गुह्यातिगुह्यगोप्त्रीत्वंगृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरि ॥ ८ ॥ ॥ श्री दुर्गार्पणमस्तु ॥ ॥ इति श्रीदुर्गोपासना सिद्ध महाविद्या पाठ सविधि समाप्ताः ॥

Vedic Astro Care | वैदिक ज्योतिष शास्त्र

Author & Editor

आचार्य हिमांशु ढौंडियाल

0 टिप्पणियाँ:

एक टिप्पणी भेजें