शुक्रवार, 25 मार्च 2022

प्रत्यङ्गिरा स्तोत्र -

एक बार माता पार्वती के पूछने पर भगवान शंकर ने सभी सिद्धियों को प्रदान करने वाली प्रत्यंगिरा स्तोत्र की विधि को लोक कल्याण के लिए माता पार्वती को बताया था। इस प्रत्यंगिरा महाविद्या की उपासना करने से प्राणहारक शत्रु भी व्यक्ति के वश में हो जाते हैं । शत्रुओं के नाश एवं अपनी मनोकामना पूरी करने के लिए प्रत्यंगिरा एक सिद्ध तांत्रिक प्रयोग है। अतः प्रत्येक साधक को यह प्रयोग किसी सिद्ध पुरुष के सानिध्य में ही करना चाहिए। शारदीय नवरात्र में सप्तमी अथवा अष्टमी के अर्धरात्रि की महानिशा में 7 ब्राह्मणों द्वारा 21 पाठ करवाकर, प्रत्यंगिरा देवी की आराधना करने से भगवती प्रत्यंगिरा अवश्य ही मनोरथ को पूर्ण करती हैं। प्रत्यंगिरा सिद्धि के इच्छुक साधक को लाल रंग के आसन पर लाल रंग के ही वस्त्र धारण कर लाल फूल लाल फल आदि लाल रंग की पूजन सामग्री से परा भगवती प्रत्यंगिरा महाकाली का पूजन करना चाहिए। ततपश्चात एक वर्ष तक निरन्तर जप करने के उपरान्त अज अर्थात बकरा अथवा मेष अर्थात भेड़ की बलि देनी चाहिए । यह प्रत्यंगिरा महाकाली एक वर्ष में अवश्य ही सिद्धि प्रदान करने वाली हैं।

प्रत्यङ्गिरा स्तोत्र - 
अथ श्री चण्डोग्रशूलपाणि तन्त्रान्तर्गत प्रत्यङ्गिरा स्तोत्रम् विनियोग 
अस्य श्रीप्रत्यङ्गिरास्तोत्रमन्त्रस्य वामदेवऋषिः अनुष्टुप्छन्दः , प्रत्यङ्गिरा देवता , ह्रीं बीजम् , ह्रूं शक्तिः , क्लीं कीलकम् , सर्वार्थसाधने विनियोगः । 
मन्दरस्थं सुखासीनं भगवन्तं महेश्वरम् । 
समुपागम्य चरणैः पार्वती परिपृच्छति ॥ १ ॥ 
देव्युवाच 
धारणीया महाविद्या प्रत्यङ्गिरा शुभादया । 
नर - नारी हितार्थाय बालानां रक्षणाय च ॥ २ ॥ 
राज्ञां माण्डलिकानां च दीनानां महेश्वर ! 
विदुषां च द्विजातीनां विशेषेणाऽर्थसाधिनी ॥ ३ ॥  महाभयेषु घोरेषु विद्युदग्निभयेषु च । 
व्याघ्र - दंष्ट्रा - कराघाते नदी - नद - समुद्रगे ॥ ४ ॥ ५
श्मशाने दुर्गमे घोरे सङ्ग्रामे शत्रुसङ्कटे । 
अभिचारेषु सर्वेषु रणे राजकुलेषु च ॥५ ॥ 
धारिता पाठिता देवि ! समीहितफलप्रदा । 
पाठिता साधकेन्द्रेण कारयेत् स्वान् मनोरथान् ॥ ६ ॥  सौभाग्यजननीं नित्यं नृणां वश्यकरीं तथा । 
तां सुविद्यां सुरश्रेष्ठ ! कथयस्व मयि प्रभो ॥ ७ ॥ 
भैरव उवाच 
साधु साधु महाभागे ! जन्तूनां हितकारिणि । 
त्वद् - वाक्येन सुरारिघ्ने ! कथयामि न संशयः ॥ ८ ॥  देवी प्रत्यङ्गिरा विद्या सर्वग्रहनिवारिणी । 
मर्दिनी सर्वदुष्टानां सर्वपापप्रणाशिनी ॥ ९ ॥ 
सौभाग्यजननी देवी बलपुष्टिकरी तथा । 
चतुष्पथेषु घोरेषु वनेषु पवनेषु च ॥ १० ॥ 
राजद्वारेषु दुर्भिक्षे महाभय उपस्थिते । 
पठिता पाठिता विद्या सर्वसिद्धिकरी स्मृता ॥ ११ ॥ 
लिखित्वा च करे कण्ठे बाहौ शिरसि धारयेत् । 
मुच्यते सर्पपापेभ्यो मृत्युं नास्ति कदाचन ॥ १२ ॥ 
धारयेद्योगयुक्तोयस्तस्य रक्षा भवेद् ध्रुवम् । 
धारिता वाऽर्चिता विद्या प्रत्यङ्गिरा शुभोदिता ॥ १३ ॥ 
गृहे चैवाऽष्ट - सिद्धिश्च देवी - राक्षस - पन्नगाः । 
न तस्य पीडां कुर्वन्ति ये चाऽन्ये पीडकग्रहाः ॥ १४ ॥ 
विद्यानामुत्तमा विद्या पठिता वाऽर्चिता सदा । यस्याऽङ्गस्था महाविद्या प्रत्यङ्गिरा सुभाषिता ॥ १५ ॥ सिद्धा सुसिद्धिदा नित्या विद्येयं परमा स्मृता । 
श्रीमता घोररूपेण भाषिता घोररूपिणी ॥ १६ ॥ 
प्रत्यङ्गिरा मया प्रोक्ता रिपून् हन्यान्न संशयः । हरिचन्दनमिश्रेण गोरोचन - कुङ्कमेन च ॥१७ ॥ 
लिखित्वा भूर्जपत्रेषु धारणीया सदा नृभिः । 
पुष्प - धूपै र्विचित्रेश्च बल्युपहार पूजनैः ॥ १८ ॥ 
पूजयित्वा यथान्यायं शान्तकुम्भेन वेष्टयेत् । 
धारयेद्य इमां विद्यां निश्चितां रिपुनाशिनीम् ॥ १ ९ ॥
विलयं यान्ति रिपव : प्रत्यङ्गिरा - विधानतः । 
यद्यत् स्पृशति हस्तेन यद्यत् खादति जिह्वया ॥ २० ॥ 
अमृतं तद् भवेत् सर्वं मृत्युर्नास्ति कदाचन । 
कर्मणा यो जपेद्यस्तु कृत्रिमं दारुणं सदा ॥ २१ ॥ 
भक्षितं तृप्तिमत्याशु नरस्य तस्य सुव्रते । 
तथाऽस्यां पठ्यमानायां जीर्यते नाऽत्र संशयः ॥ २२ ॥ 
नृणां रक्षाकरी देवी सर्वसिद्धिकरी स्मृता । सर्वमन्त्रविनाशी च गोलकस्थान्तरः परा ॥ २३ ॥
सर्वव्याधिहरी विद्या सिद्धिदात्री महेश्वरी । 
प्राप्नोति वसुधां सर्वां रिपुहस्तगतां श्रियम् ॥ २४ ॥ 
वशास्तस्यैव तिष्ठन्ति शत्रवः प्राणाहारकाः । 
अभ्यस्यतां याति विद्यां सिद्धिविद्या प्रसादतः ॥ २५ ॥
अबला च वशाद्यस्य सुन्दर्यः प्रियदर्शनाः । 
चराऽचरमिदं सर्वं स - शैलवन - काननम् ॥ २६ ॥ 
नर - नारी - समाकीर्णं साधकस्य च सुव्रते । 
सर्वत्र वशतां यान्ति यजमानस्य नित्यशः ॥ २७ ॥ 
गोलकस्य प्रभावेण प्रत्यङ्गिरा - प्रभावतः । 
त्रिपुरश्च मया दग्ध इमां विद्यां च बिभ्रता ॥ २८ ॥
निर्जितास्त्राऽसुराः सर्वे देवैर्विद्याभिमानिभिः । 
गोलकं च प्रवक्ष्यामि भैषज्यं ते च सुव्रते ॥ २ ९ ॥ 
पञ्चवर्णैः पञ्चदलैः द्वारर्धे द्वारशोभितम् । द्वात्रिंशत्पन्नमध्ये तु लिखेन्मन्त्रस्य दैवतम् ॥ ३० ॥ 
कूटस्थं कुरुते दिक्षु विदिक्षु बीजपञ्चकम् । 
फट्कारेण च संयुक्तं रक्षेच्च साधकोत्तमः ॥ ३१ ॥
विष्णुक्रान्तां मदनकं कुंकुमं रोचनं तथा । 
आरुष्करं विषारिष्टं सिद्धार्थं मालतीं तथा । 
एतद् द्रव्यगणं भद्रे ! गोलमध्ये निधापयेत् ॥ ३२ ॥ 
सम्भृतं धारयेन्मन्त्री साधको मन्त्रवित् सदा । 
अधुना सम्प्रवक्ष्यामि प्रत्यङ्गिरां सुभाषिताम् ॥ ३३ ॥ 
दिव्यैर्मन्त्रपदैश्चित्तैः सुखोपायैः सुखप्रदैः । पठेद्रक्षाभिधानेन मन्त्रराजः प्रकीर्तितः ॥ ३४ ॥ 
माला मन्त्र 
ॐ नमः शिवाय सहस्त्रसूर्येक्षणाय ॐ अनादिरूपाय अनादिपुरुषाय पुरुहूताय महामयाय महाव्यापिने महेश्वराय ॐ जगत्साक्षिणे सन्तापभूत - व्यापिने महाघोराऽतिघोराय ॐ ॐ महाप्रभावं दर्शय दर्शय ॐॐ हिलि हिलि ॐ हन हन ॐ गिलि गिलि ॐ मिलि मिलि ॐॐ भूरि भूरि विद्युज्जिह्वे ज्वल ज्वल प्रज्वल प्रज्वल धम धम बन्ध बन्ध मथ मथ प्रमथ प्रमथ विध्वंसय विध्वंसय सर्वान दुष्टान् ग्रस ग्रस पिब पिब नाशय नाशय त्रासय त्रासय भ्रामय भ्रामय दारय दारय द्रावय द्रावय दर दर विदुर विदुर विदारय विदारय रं रं रं रं रं रक्ष रक्ष त्वं मां साधकं मां पाठकं च रक्ष रक्ष हुँ फट् स्वाहा । एँ एँ हुँ हुँ रक्ष रक्ष सर्वभूतभयोपद्रवेभ्यो महामेघौघसर्वतोऽग्नि - विद्युदर्क - संवर्त कपर्दिनि ! दिव्यकणिकाम्भोरुह विकच पद्म मालाधारिणि ! शितिकण्ठाभखट्वां कपालधृक् व्याघ्राजिनधृक् परमेश्वरप्रिये ! मम शत्रून् छिन्छि छिंन्छि भिन्धि भिन्धि विद्रावय विद्रावय देवता - पितृ - पिशा चोरग - नागाऽसुर - गरुड - गन्धर्व - किन्नर विद्याधर - यक्ष - राक्षसान् - ग्रहाँश्च स्तम्भय - स्तम्भय ये च धारकस्य पाठकस्य वा स परिवारस्य शत्रवस्तान् सर्वान् निकृन्तय निकृन्तय ये च सर्वे मम अविद्यां कर्म कुर्वन्ति कारयन्ति वा तेषाम् अविद्यां स्तम्भय स्तम्भय तेषां देशं कीलय कीलय तेषां बुद्धिर्घातय घातय ग्रामं घातय घातय रोमं कीलय कीलय शत्रु स्वाहा । ॐॐ विश्वमूर्ते महातेजसे ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां विद्यां स्तम्भय स्तम्भय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां शिरमुखे स्तम्भय स्तम्भय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां नेत्रे स्तम्भय स्तम्भय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां हस्तौ स्तम्भय स्तम्भय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां दन्तान् स्तम्भय । स्तम्भय ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां जिह्वां स्तम्भय स्तम्भय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणाम् उदरं स्तम्भय स्तम्भय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां नाभिं स्तम्भय स्तम्भय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां गुह्यं स्तम्भय स्तम्भय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां पादौ स्तम्भय स्तम्भय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां सर्वेन्द्रियाणि स्तम्भय स्तम्भय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां कुटुम्बानि स्तम्भय स्तम्भय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां स्थानं कीलय कीलय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां देशं कीलय कीलय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां मण्डलं कीलय कीलय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां ग्रामं कीलय कीलय । ॐ जः ॐ जः ॐ ठः ठः मम शत्रूणां प्राणान् स्तम्भय स्तम्भय । ॐ सर्वसिद्धिमहाभागे ! मम धारकस्य पाठकस्य वा सपरिवारस्य शान्तिं कुरु कुरु स्वाहा । ॐ ॐ हुँ हुँ फट् स्वाहा । ॐ हुँ फट् स्वाहा । ॐ ॐ ॐ ॐ ॐ यं यं यं यं यं , रं रं रं रं रं , लं लं लं लं लं , वं वं वं वं वं , शं शं शं शं शं , षं षं षं षं षं , संसं सं सं सं , हं हं हं हं हं , क्षं क्षं क्षं क्षं क्षं , ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं क्लीं क्लीं क्लीं क्लीं क्लीं , हुँ हुँ हुँ हुँ हुँ , फट् स्वाहा । ॐ जः ॐ जः ॐ ठः ठः ॐ हुँ हुँ फट् स्वाहा । ॐ जूं सः फट् स्वाहा । ॐ नमो भगवति प्रत्यङ्गिरे ! मम धारकस्य पाठकस्य वा सपरिवारस्य सर्वतो रक्षां कुरु कुरु फट् स्वाहा । ॐ जः ॐ जः ॐ ठः ठः ॐ हुं हुं हुं हुं , ॐ हुं हं फट् स्वाहा । ॐ नमो भगवति ! दुष्टचण्डालिनि ! त्रिशूल - वज्राऽङ्कुशशक्ति - धारिणि ! रुधिर मांसल - वसाभक्षिणि ! कपाल खट्वाङ्गधारिणि ! मम शत्रून् छेदय छेदय दह दह हन हन पच पच धम धम मथ मथ सर्वदुष्टान् ग्रस ग्रस ॐ ॐ हुं हुं फट् स्वाहा । ॐ हुं हुं हुं हुं हुं फट् स्वाहा । - ॐ ॐ ह्रीं दंष्ट्राकरालिनि ! मम कृते मन्त्र - यन्त्र - तन्त्र - प्रयोगविषचूर्णशस्त्रद्य विचार- सर्वोपद्रवादिकं येन कृतं कारितं कुरुते कारयन्ति करिष्यन्ति वा तान् सर्वान् हन हन हन प्रत्यङ्गिरे ! त्वं मां धारकस्य स - परिवारकं रक्ष रक्ष हुं हुं हुं हुं हुं फट् स्वाहा । ॐ ऐं ह्रीं रीं स्फ्रें स्फ्रें हुं हुं फट् स्वाहा । ॐ ऐं ह्रीं श्रीं मम शरीरे रक्ष रक्ष फट् स्वाहा । ॐ ऐं ह्रीं श्रीं माहेश्वरि ! मम नेत्रे रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं रीं स्फ्रें स्फ्रें हुं ब्रह्माणि ! मम शिरो रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं कौमारि ! मम वक्त्रं रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं रीं स्फ्रें स्फ्रें हुं वैष्णवि ! मम कण्ठं रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं नारसिंहि ! मम बाहू रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्री स्फ्रें स्फ्रें हुं वाराहि ! मम हृदयं रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं ऐन्द्रि ! मम नाभिं रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं चामुण्डे ! मम गुह्यं रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं माहेश्वरि ! मम जंघे रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं मोहिनि ! मम शत्रून् मोहय मोहय स्वाहा । ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं हुं प्रत्यङ्गिरे ! मम शरीरं रक्ष रक्ष स्वाहा । 
कूटस्था कुरुते दिक्षु विदिक्षु बीजपञ्चकम् । 
फट्कारेण समोपेतं रक्षत्वं साधकोत्तमे ॥ १ ॥ 
स्तम्भिनी मोहिनी चैव क्षोभिणी द्राविणी तथा ।
जृम्भिणी भ्रामरी रौद्री तथा संहारिणीति च ॥ २ ॥ 
शक्तयः शोषिणी चैव शत्रुपक्षनियोजितः । 
साधिता साधकेन्द्रेण सर्वशत्रुविनाशिनी ॥ ३ ॥
ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं स्तम्भिनि ! मम शत्रून् स्तम्भय स्तम्भय स्वाहा । ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं मोहिनि ! मम शत्रून् मोहय मोहय स्वाहा । ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं भ्रामिणि । मम शत्रून् भ्रामय भ्रामय स्वाहा । ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं रौद्रि ! मम शत्रून रौद्रय रौद्रय स्वाहा । ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं संहारिणि ! मम शत्रून् संहारय संहारय स्वाहा । ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं शोषिणी ! मम शत्रून् शोषय शोषय स्वाहा । 
य इमां धारयेद् विद्यां त्रिसन्ध्यं वाऽपि यः पठेत् । 
सोऽपि दुष्टान्तको भूत्वा हन्याच्छत्रून् न संशयः ॥ ४ ॥
सर्व हि रक्षयेद् विद्यां महाभय - विपत्तिषु । 
महाभयेषु घोरेषु न भयं विद्यते क्वचित् । 
सर्वान् कामानवाप्नोति मर्त्यो देवि ! न संशयः ॥ ५ ॥
ॐ ऐं ह्रीं श्रीं स्फ्रें स्फ्रें हुं प्रत्यङ्गिरे ! विकटदंष्ट्रे ! ह्रीं ह्रीं कालिकेलि ! स्फ्रें स्फ्रें कारिणि मम शत्रून् छेदय छेदय स्वादय स्वादय सर्वान् दुष्टान् मारय मारय खड्गेन छिन्धि छिन्धि किलि किलि चिकि चिकि पिब पिब रुधिरं स्फ्रें स्फ्रें किरि किरि कालि कालि महाकालि महाकालि श्रीं ह्रीं ऐं हुं हुं फट् स्वाहा ।
अष्टोत्तरशतं जपेत् साक्षात् सिद्धीश्वरो भवेत् । 
ऋषिस्तु भैरवो नाम छन्दोऽनुष्टुप् - प्रकीर्तितम् । 
देवता कौशिकी प्रोक्ता नाम प्रत्यङ्गिरैव सा ॥ ६ ॥
कूर्चबीजं षडङ्गानि कल्पयेत् साधकोत्तमः । सर्वकृष्टोपचारैस्तु ध्यायेत् प्रत्यङ्गिरां शुभाम् ॥ ७ ॥ 
खङ्गं कपालं डमरुं त्रिशूलं सम्बिभ्रती चन्द्रकलावतंसा । पिङ्गोर्ध्वकेशा - ऽसित - भीमदंष्ट्रा भूयाद् विभूत्यै मम भद्रकाली ॥ ८ ॥ 
एवं ध्यात्वा जपेन्मन्त्रमेकविंशतिवासरान् । 
शत्रून् सन्नाशयेत्तं च प्रकारोऽयं सुनिश्चितम् ॥ ९ ॥ 
अथाऽष्टम्यामर्धरात्रौ शरत्काले महानिशि । 
आराधिता च सा काली तत्क्षणात् सिद्धिदा भवेत् ॥ १० ॥ 
सर्वोपचारसम्पन्ना रक्तवस्त्रफलादिभिः । 
पुष्पैश्च रक्तवर्णैश्च साधयेत् कालिका पराम् ॥११ ॥ 
वर्षादूर्ध्वमजं मेषं मृगं वा विविधं बलिम् । 
दद्यात् पूर्वं महेशानि ! ततस्तु जपमाचरेत् ॥ १२ ॥ 
एकहायनतः काली सत्यं सत्यं सुसिद्धिदा । 
मूलमन्त्रेण रात्रौ च होमं कुर्याद् विचक्षणः ॥ १३ ॥ 
मरीच - लाज - लवणैः सर्षपैर्मारणं भवेत् । लाल महासङ्कटरोगे च न भयं जायते क्वचित् ॥ १४ ॥
प्रेतपिण्डं समादाय गोलकं कारयेत्ततः । 
साध्यनामाङ्कितं कृत्वा शत्रुमय्यां न पुत्तलीम् ॥ १५ ॥
जीवं तत्र विधायैव चिताग्नौ प्रक्षिपेत् ततः । 
एकायुतं जपं कृत्वा त्रिरात्रान्मरणं रिपोः ॥ १६ ॥ 
महाज्वरो भवेत्तस्य तप्तताम्रशलाकया । 
गुदाद्वारे प्रविन्यस्य सप्ताहान्मरणं रिपोः ॥ १७ ॥ 
 पुष्प समर्पण विधिः 
भुक्तौ मुक्तौ च शान्तौ च श्वेतपुष्पं विनिर्दिशते । 
आकृष्टो च वशीकारे रक्तं पुष्पं विनिर्दिशेत् ॥ १ ॥ 
स्तम्भने मोहने चैव पीतपुष्पमं विनिर्दिशेत् । 
उच्चाटने मारणे च कृष्णापुष्पं विनिर्दिशेत् ॥ २ ॥ 
अनेनैव ध्यानं स्यात् पुष्पवर्णकम् । 
एवं पुष्पविधिः प्रोक्तः पूजादौ जपकर्मणि ॥ ३ ॥








दाहने हाथ में जल लेकर ' अस्य कर श्रीप्रत्यङ्गिरास्तोत्रमन्त्रस्य ' से आरम्भ ' सर्वार्थसाधने विनियोगः ' तक पढ़कर जल को नीचे किसी पात्र में गिरा देना चाहिए ।
मन्दराचल पर सुखपूर्वक बैठे हुए भगवान् शंकर के पास आकर पार्वती ने पूछा । 
देवी ने कहा- जो प्रत्यङ्गिरा नामक महाविद्या उत्तम फल देने वाली है , जिससे स्त्री - पुरुषों का हित तथा बालकों की रक्षा होती है । 
माण्डलिक राजा , दीनजन , विद्वान् तथा द्विजातियों का जो विशेष रूप से मनोरथ सिद्ध करने वाली है ।
भयंकर , महाभय , बिजली , अग्निभय , व्याघ्र , नदी , नद , समुद्र , श्मशान , दुर्गमस्थान , घोर संग्राम , शत्रुसंकट , मारणादि अभिचार और राजकुल आदि में धारण तथा पाठ से जो अभिलाषित वस्तु देने वाली है , साधकों के द्वारा पढ़ने पर जो सभी मनोरथ पूर्ण करती है
जो सम्पूर्ण सौभाग्यों की जननी तथा समस्त मनुष्यों को वश में करने वाली है , हे सुरश्रेष्ठ , आप मुझे उस विद्या को बताइए । भैरव ने कहा- हे प्राणियों का हित करने वाली - महाभागे पार्वती ! तुमने यह प्रश्न ठीक ही किया । हे असुरों का विनाश करने वाली , मैं उस महाविद्या को तुम से कह रहा हूँ , इसमें संशय नहीं है ।प्रत्यङ्गिरा देवी , जो महाविद्या के नाम से विख्यात् है वही सम्पूर्ण ग्रहों का निवारण करने वाली , दुष्टों का मर्दन करने वाली तथा समस्त पापों का विनाश करने वाली है । 
वह देवी सौभाग्य की जननी ( माता ) , बल तथा पुष्टि प्रदान करने वाली है , चतुष्पथ , घोर वन , झंझावात राजद्वार , दुर्भिक्ष तथा महाभय उपस्थित होने पर , पढ़ने तथा पाठ कराने से सम्पूर्ण सिद्धियों को देने वाली है ।जो महाविद्या के इस मन्त्र तथा यन्त्र को लिखकर बाहु , हाथ , कण्ठ तथा सिर में धारण करते हैं , वे सभी प्रकार के पापों से मुक्त हो जाते हैं और कभी अकाल मृत्यु से नहीं मरते । योग से युक्त पुरुष यदि इस महाविद्या के यन्त्र तथा मन्त्र को धारण करे तो निश्चय ही उसकी रक्षा होती है । धारण तथा अर्चन - पूजन से यह प्रत्यंगिरा शुभफल देने वाली है ।उसके घर में आठों सिद्धियों का निवास रहता है , देवता , राक्षस , पन्नग ( सर्प ) तथा अन्य पीड़ाकारक ग्रह उसके घर में किसी प्रकार की बाधा उत्पन्न नहीं करते ।
विद्याओं में सर्वोत्तम महाविद्या प्रत्यंगिरा भाषण से , पाठ से तथा पूजन - अर्चन से सिद्धि को प्रदान करने वाली है । यह महाविद्या नित्य है , भगवान् शंकर ने घोर ( निष्पाप ) रूप धारण कर इस घोररूपिणी ( निष्पापा ) महाविद्या का व्याख्यान किया है । 
भगवान् भैरव ने कहा- हे पार्वती , मैं जिस प्रत्यंगिरा को तुम से कह रहा से कह रहा हूँ , वह शत्रुओं का विनाश करने वाली है । हरिचन्दन , गोरोचन और कुम्कुम से भोजपत्र पर लिखकर इस प्रत्यंगिरा को मनुष्य को धारण करना चाहिए । पुष्प , धूप तथा विचित्र पुष्पों तथा बलि से नित्य पूजा करनी चाहिए । उपर्युक्त विधि से पूजा कर स्वर्ण के समान पीले वस्त्र से इसे लपेट कर धारण करने वाली है । प्रत्यंगिरा के शास्त्रीय अनुष्ठान मात्र से समस्त शत्रु विनष्ट हो जाते हैं तथा वह पुरुष जिसको अपने हाथ से स्पर्श करता है , जिसको जिह्वा से खाता है वह सब उसके लिए अमृत हो जाता है । उस पुरुष की कदापि मृत्यु नहीं होती और जो साधक इसको पढ़ता है उसको कभी कृत्रिम ( बनावटी ) तथा कठिन कष्ट नहीं होता । हे सुव्रते , जो पुरुष प्रत्यंगिरा का पाठ करता है , उसको भोजन शीघ्र ही तृप्ति प्रदान करता है , तथा पच जाता है । और इसके पढ़ने पाठ करने से कभी बार्द्धक्य ( बुढ़ापे ) का अनुभव नहीं होता , यह निःसन्देह है । १२
यह प्रत्यंगिरा मनुष्यों की रक्षा करने वाली है , सिद्धि देने वाली है और यह परा है तथा गोलोक में निवास करने वाली है । इनके सामने सभी मन्त्रों का प्रभाव नष्ट हो जाता है । यह महाविद्या सम्पूर्ण व्याधियों का विनाश करने वाली है , सिद्धि देने वाली है । महाविद्या की उपासना करने वाला पुरुष शत्रु के हाथ में गई हुई भूमि को भी प्राप्त कर लेता है । 
महाविद्या की उपासना करने से प्राणहारक शत्रु भी उसके वश में हो जाते हैं । इस सिद्ध विद्या के बारम्बार अनुष्ठान से मनुष्य विद्या को प्राप्त कर लेता है । 
अनेक सुन्दरी स्त्रियाँ , उस पुरुष के वश में हो जाती हैं । हे सुव्रते , यह शैल , कानन समेत सारा चराचर विश्व जो नर - नारी समाकीर्ण है , उस साधक के वश में हो जाते हैं । गोलक यन्त्र के प्रभाव से तथा प्रत्यंगिरा के प्रभाव से और इस महाविद्या के धारण से ही मैंने त्रिपुर को जलाया । जिस गोलक के प्रभाव से देवताओं ने असुरों पर विजय प्राप्त किया , हे सुव्रते , उस गोलक का निरूपण करता हूँ । कमल के चारों ओर पाँच - पाँच रंग के पाँच पत्रों के मध्य बत्तीस पत्रों में फट् से संयुक्त मन्त्र को लिखे । 
उस कमल की दसो दिशाओं में पाँच बीज . स्थापित करे । विष्णुकान्ता , दमनक , कुम्कुम तथा रोचन , अरुष , विषारिष्ट , सिद्धार्थ तथा मालती आदि अष्टगन्ध को गोलक के मध्य में स्थापित कर मन्त्रवेत्ता साधक को धारण करना चाहिए । हे देवी , अब मैं प्रत्यंगिरा स्तोत्र को तुम से कहता हूँ सुनो ।स्वस्थ चित्त होकर , सुख का साधनभूत , और सुख देने वाले इस मन्त्र के प्रत्येक पदों को सुललित रूप से पढ़ना चाहिए । यह मन्त्र रक्षात्मक है और सभी मन्त्रों का राजा है । 


आठों दिशाओं के मध्य भाग में पाँच बीज एवं फट्कार से युक्त हे देवी , आप मेरी रक्षा करो । 

 १. स्तम्भिनी , २. मोहिनी , ३. क्षोभिणी , ४ . द्राविणी , ५. जृम्भिणी , ६. भ्रामरी , ७. रौद्री , ८ . संहारिणी और ९ . शोषिणी ये नौ शक्तियाँ श्रेष्ठ साधक के द्वारा साधित तथा शत्रु पक्ष में नियोजित होने पर समस्त शत्रुओं का विनाश करती है । 
 जो मनुष्य इस विद्या की अर्थात् इस प्रत्यंगिरा के मन्त्र को धारण करता है और तीनों संध्याओं में इसका पाठ करता है वह दुष्ट शत्रुओं को मारने में पूर्ण समर्थ होता है , इसमें संशय नहीं है । 
महाभय तथा विपत्ति काल में यह विद्या रक्षा करती है । घोर भयंकर स्थान में भी यह भयमुक्त करने वाली है । हे देवी , अधिक क्या कहें , इसके जप और पाठ करने वाले प्राणियों को सब कुछ निःसन्देह प्राप्त होता है । 
उपर्युक्त मन्त्र का एक सौ आठ बार जप करने से मनुष्य सिद्धों का राजा हो जाता है । इस मन्त्र के भैरव ऋषि एवं अनुष्टुप् छन्द और कौशिकी देवता हैं । यही कौशिकी प्रत्यंगिरा के नाम से सुविख्यात हैं । 
उत्तम साधक षडंग - न्यास तथा कूर्चबीच करे । भगवती के प्रसन्न करने वाले अनेक उपचारों को एकत्रित कर प्रत्यंगिरा का ध्यान करना चाहिए ।
वह भद्रकाली हमारा कल्याण करे , जो खड्ग , कपाल , डमरू तथा त्रिशूल को धारण करने वाली हैं । जिनके मस्तक में चन्द्रकला सुशोभित है , जिनके केश पीले तथा ऊपर की ओर उठे हुए हैं , जिनके दाँत अत्यन्त चमकीले तथा उग्र व भयंकर हैं । 
इस प्रकार प्रतिदिन भगवती प्रत्यंगिरा का ध्यान कर इक्कीस दिन पर्यन्त भगवती के मन्त्र का जप करना चाहिए । यह विधि निश्चित ही शत्रुओं का विनाश करने वाली है । 
शरत् - काल के नवरात्र में अष्टमी के अर्धरात्रि की महानिशा में आराधना करने से भगवती अवश्य ही मनोरथ को पूर्ण करने वाली होती हैं । 
सम्पूर्ण पूजन के सामग्री से युक्त हो लाल वस्त्र , लाल फल तथा लाल फूलों से परा भगवती महाकाली का पूजन करना चाहिए ।
एक वर्ष तक निरन्तर जप करने के उपरान्त अज ( बकरा ) , मेष ( भेड़ ) मृग तथा अन्य प्रकार की बलि देनी चाहिए । तत्पश्चात् पुनः जप करना चाहिए ।
यह महाकाली एक वर्ष में सिद्धि प्रदान करने वाली है , यह बात सत्य है , सत्य है । प्रत्यंगिरा महाकाली के मूल मन्त्र से रात्रि में ही विद्वान् पुरुष को होम करना चाहिए ।
मरिच , लावा तथा नमक और सरसों का हवन करने से मारणप्रयोग किया जाता है , इतना ही नहीं , उपर्युक्त विधि के हवन से महासंकट , रोग तथा भय उत्पन्न नहीं होते । प्रेत के पिण्ड को लेकर गोलक यन्त्र बनाए फिर उस पर शत्रु का नाम लिखकर शत्रु का पुतला बनाकर उसमें प्राण प्रतिष्ठा करें । चिता की अग्नि में हवन करें । दस हजार जप करें तो निश्चय ही तीन रात्रि के भीतर शत्रु मर जाता है ।
 जलते हुए ताँबे की सलाई से शत्रु का पुतला बना कर उपर्युक्त विधि से गुदा द्वार पर दागे तो शत्रु को महाज्वर उत्पन्न हो जाता है और वह सात रात के भीतर ही मर जाता है ।
इक्कीस दिन तक आदि से अन्त तक जपकर , भोग , मुक्ति तथा शान्ति के लिए एक सौ आठ सफेद फूल चढ़ावे । आकर्षण तथा वशीकरण के लिए जप के अन्त में एक सौ आठ लाल फूल चढ़ाए । स्तम्भन तथा मोहन के लिए एक सौ आठ पीले फूल चढ़ाएँ । उच्चाटन तथा मारण की प्रक्रिया में एक सौ आठ काले फूल चढ़ाएँ । यह पूजा तथा जप करने के लिए फूल समर्पण की विधि है और उपर्युक्त मनोभिलाषित कार्यों में ध्यान के लिए तत्सम्बन्धी वर्ण के पुष्प लेकर ही ध्यान करना चाहिए ।

Vedic Astro Care | वैदिक ज्योतिष शास्त्र

Author & Editor

आचार्य हिमांशु ढौंडियाल

0 टिप्पणियाँ:

एक टिप्पणी भेजें