शनिवार, 26 मार्च 2022

श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्

॥ श्रीदुर्गायै नमः ॥ 
श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् 
ईश्वर उवाच 
शतनाम प्रवक्ष्यामि शृणुष्व कमलानने । 
यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ॥ १ ॥ 
ॐ सती साध्वी भवप्रीता भवानी भवमोचनी । 
आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी ॥ २ ॥ पिनाकधारिणी चित्रा चण्डघण्टा महातपाः । 
मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः ॥ ३ ॥ सर्वमन्त्रमयी सत्ता सत्यानन्दस्वरूपिणी ।
अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः ॥ ४ ॥
शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा ।सर्वविद्या दक्षकन्या  दक्षयज्ञविनाशिनी ॥ ५ ॥ 
अपर्णानेकवर्णा च पाटला पाटलावती । 
पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी ॥ ६ ॥ अमेयविक्रमा क्रूरा सुन्दरी सुरसुन्दरी । 
वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ॥ ७ ॥  
ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा । 
चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ॥ ८ ॥ विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा ।बहुला बहुलप्रेमा सर्ववाहनवाहना ॥ ९ ॥  निशुम्भशुम्भहननी महिषासुरमर्दिनी ।
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥ १० ॥ सर्वासुरविनाशा च सर्वदानवघातिनी । 
सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा ॥ ११ ॥
अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी । 
कुमारी चैककन्या च कैशोरी युवती यतिः ॥ १२ ॥ अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा । 
महोदरी मुक्तकेशी घोररूपा महाबला ॥ १३ ॥अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी ।   
नारायणी भद्रकाली  विष्णुमाया जलोदरी ॥ १४ ॥ शिवदूती कराली च अनन्ता परमेश्वरी । 
कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ॥ १५ ॥ 
य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् । 
नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ॥ १६ ॥ 
धनं धान्यं सुतं जायां हयं हस्तिनमेव च । 
चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतीम् ॥ १७ ॥
कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् । 
पूजयेत् परया भक्त्या पठेन्नामशताष्टकम् ॥ १८ ॥ 
तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि । 
राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात् ॥ १ ९ ॥ गोरोचनालक्तककुङ्कुमेन सिन्दूरकर्पूरमधुत्रयेण । विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः ॥ २० ॥
भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते । 
विलिख्य प्रपठेत् स्तोत्रं स भवेत् सम्पदां पदम् ॥ २१ ॥ 
इति श्रीविश्वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ।


Vedic Astro Care | वैदिक ज्योतिष शास्त्र

Author & Editor

आचार्य हिमांशु ढौंडियाल

0 टिप्पणियाँ:

एक टिप्पणी भेजें