सोमवार, 11 अगस्त 2025

श्रीकनकधारास्तोत्रम्

श्रीकनकधारास्तोत्रम् 
अङ्गं हरेः पुलकभूषणमाश्रयन्ती 
भृङ्गाङ्गनेव मुकुलाभरणं तमालम्। अङ्गीकृताखिलविभूतिरपाङ्गलीला 
माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः ॥ १ ॥

मुग्धा मुहुर्विदधती वदने मुरारेः 
प्रेमत्रपाप्रणिहितानि गतागतानि । 
माला दृशोर्मधुकरीव महोत्पले या 
सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥

विश्वामरेन्द्रपदविभ्रमदानदक्ष
मानन्दहेतुरधिकं मुरविद्विषोऽपि । 
ईषन्निषीदतु मयि क्षणमीक्षणार्ध
मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३ ॥

आमीलिताक्षमधिगम्य मुदा मुकुन्द
मानन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं 
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥ 

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या 
हारावलीव हरिनीलमयी विभाति । 
कामप्रदा भगवतोऽपि कटाक्षमाला 
कल्याणमावहतु मे कमलालयायाः ॥ ५ ॥
 
कालाम्बुदालिललितोरसि कैटभारे-
र्धाराधरे स्फुरति या तडिदङ्गनेव । 
मातुः समस्तजगतां महनीयमूर्ति-
र्भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ६ ॥ 

प्राप्तं पदं प्रथमतः किल यत्प्रभावा-
न्माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं 
मन्दालसं च मकरालयकन्यकायाः ॥ ७ ॥ 

दद्याद्दयानुपवनो द्रविणाम्बुधारा-
मस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे । 
दुष्कर्मधर्ममपनीय चिराय दूरं 
नारायणप्रणयिनीनयनाम्बुवाहः ॥ ८ ॥

इष्टा विशिष्टमतयोऽपि यया दयार्द्र
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते। 
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां 
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ९ ॥

गीर्देवतेति गरुडध्वजसुन्दरीति 
शाकम्भरीति शशिशेखरवल्लभेति । 
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै 
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै 
रत्यै नमोऽस्तु रमणीयगुणार्णवायै । 
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै 
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥

नमोऽस्तु नालीकनिभाननायै 
नमोऽस्तु दुग्धोदधिजन्मभूत्यै । 
नमोऽस्तु सोमामृतसोदरायै 
नमोऽस्तु नारायणवल्लभायै ॥ १२ ॥

सम्पत्कराणि सकलेन्द्रियनन्दनानि 
साम्राज्यदानविभवानि सरोरुहाक्षि।
त्वद्वन्दनानि दुरिताहरणोद्यतानि 
मामेव मातरनिशं कलयन्तु मान्ये ॥ १३॥

यत्कटाक्षसमुपासनाविधिः 
सेवकस्य सकलार्थसम्पदः । 
संतनोति वचनाङ्गमानसै-
स्त्वां मुरारिहृदयेश्वरीं भजे ॥ १४ ॥

सरसिजनिलये सरोजहस्ते 
धवलतमांशुकगन्धमाल्यशोभे । 
भगवति हरिवल्लभे मनोज्ञे 
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १५॥

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट
स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १६ ॥ 

कमले कमलाक्षवल्लभे त्वं 
करुणापूरतरङ्गितैरपाङ्गैः । 
अवलोकय मामकिञ्चनानां 
प्रथमं पात्रमकृत्रिमं दयायाः ॥ १७॥

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं 
त्रयीमयीं त्रिभुवनमातरं रमाम् । 
गुणाधिका गुरुतरभाग्यभागिनो 
भवन्ति ते भुवि बुधभाविताशयाः ॥ १८ ॥

॥ श्रीभगवत्पादशङ्करविरचितं कनकधारास्तोत्रं सम्पूर्णम् ॥

Vedic Astro Care | वैदिक ज्योतिष शास्त्र

Author & Editor

आचार्य हिमांशु ढौंडियाल

0 टिप्पणियाँ:

एक टिप्पणी भेजें