*सौराष्ट्रदेशे विशदेऽतिरम्ये,*
*ज्योतिर्मयं चन्द्रकलावतंसम् ।*
*भक्तिप्रदानाय कृपावतीर्णं,*
*तं सोमनाथं शरणं प्रपद्ये ॥1।।*
*श्रीशैलशृङ्गे विबुधातिसङ्गे,*
*तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।*
*तमर्जुनं मल्लिकपूर्वमेकं,*
*नमामि संसारसमुद्रसेतुम् ॥2।।*
*अवन्तिकायां विहितावतारं,*
*मुक्तिप्रदानाय च सज्जनानाम् ।*
*अकालमृत्योः परिरक्षणार्थं,*
*वन्दे महाकालमहासुरेशम् ॥3।।*
*कावेरिकानर्मदयोः पवित्रे,*
*समागमे सज्जनतारणाय ।*
*सदैवमान्धातृपुरे वसन्त
मोङ्कारमीशं शिवमेकमीडे ॥4।।*
पूर्वोत्तरे प्रज्वलिकानिधाने,
सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं,
*श्रीवैद्यनाथं तमहं नमामि ॥5।।
याम्ये सदङ्गे नगरेऽतिरम्ये,
विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं,
श्रीनागनाथं शरणं प्रपद्ये ॥6।।
महाद्रिपार्श्वे च तटे रमन्तं,
सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः,
केदारमीशं शिवमेकमीडे ॥7।।
सह्याद्रिशीर्षे विमले वसन्तं,
गोदावरितीरपवित्रदेशे ।
यद्धर्शनात्पातकमाशु नाशं,
प्रयाति तं त्र्यम्बकमीशमीडे ॥8।।
सुताम्रपर्णीजलराशियोगे,
निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं ,
रामेश्वराख्यं नियतं नमामि ॥9।।
यं डाकिनिशाकिनिकासमाजे,
निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्दं
तं शङ्करं भक्तहितं नमामि ॥10।।
सानन्दमानन्दवने वसन्त
मानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं शरणं प्रपद्ये ॥11।।
इलापुरे रम्यविशालकेऽस्मिन्,
समुल्लसन्तं च जगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं,
घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥12।।
ज्योतिर्मयद्वादशलिङ्गकानां,
शिवात्मनां प्रोक्तमिदं क्रमेण।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या,
फलं तदालोक्य निजं भजेच्च ॥13।।
*॥ इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ॥*
https://youtu.be/FcK5aAOwmIE
0 टिप्पणियाँ:
एक टिप्पणी भेजें