रविवार, 24 दिसंबर 2023

श्रीविपरीतप्रत्यङ्गिरा स्तोत्र

अथ श्रीविपरीतप्रत्यङ्गिरा

श्रीप्रत्यङ्गिरायै नमः । ॐ अस्य श्रीविपरीतप्रङ्गिरामन्त्रस्य भैरव ऋषिः अनुष्टुप्छन्दः श्रीविपरीतप्रत्यङ्गिरादेवता ममाभीष्टसिद्धयर्थे जपे पाठे विनियोगः 

करन्यासः- 
ॐ ऐं अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ श्रीं मध्यमाभ्यां नमः । ॐ प्रत्यङ्गिरे अनामिकाभ्यां नमः । ॐ मां रक्ष कनिष्ठिकाभ्यां नमः । ॐ मम शत्रून्भञ्जय करतलकरपृष्ठाभ्यां नमः । 

हृदयादिन्यासः । 
ॐ ऐं हृदयाय नमः । ॐ ह्रीं शिरसे नमः । ॐ श्रीं शिखायै वषट । ॐ प्रत्यङ्गिरे कवचाय हुम् । ॐ मां रक्ष नेत्रत्रयाय वौषट । ॐ मम शत्रून्भञ्जय अस्त्राय फट। 

ॐ भूर्भुवः स्वः इति दिग्बन्धनम् -  
ॐ ऐं ह्रीं श्रींप्रत्यङ्गिरे मां रक्ष रक्ष मम शत्रून्भञ्जय भञ्जय फे हुँ फट् स्वाहा। 
अष्टोत्तरशतञ्चास्य जपं चैव प्रकीर्तितम् ।
ऋषिस्तु भैरवो नाम छन्दोऽनुष्टुप् प्रकीर्तितम् ॥
देवता देशिका रक्ता वाम ध्यायेत्प्रत्यङ्गिरां शुभां ।। 

 - श्रोत्र प्रत्यङ्गिरेति च ।। पूर्वबीजेः षडङ्गानि कल्पयेत्साधकोत्तमः सर्वदोषवारेन  


टंकं कपालं डमरुं त्रिशूलं सम्बिभ्रती चन्द्रकलावतंसा । विगोध्र्ध्वकेशाऽसितभीमदंष्ट्रा भूयाद्विभूत्यै मम भद्रकाली ।। एवं ध्यात्वा जपेन्मंत्र- मेर्कावशतिवासरान् । शत्रूणां नाशनं ह्येतत्प्रकाशोऽयं सुनिश्चयः ।। अष्टम्यामधं- रात्रे तु शरत्काले महानिशि । आराधिता चेच्छीकाली तत्क्षणात् सिद्धिदा नृणाम् ।। सर्वोपचारसम्पन्ना वस्त्ररत्नकलादिभिः । पुष्पैश्च कृष्णवर्णैश्च साधये- त्कालिकां वराम् ।। वर्षादूर्ध्वमजम्मेषम्मृदं वाथ यथाविधि । दद्यात् पूर्वं महेशानि ततश्च जपमाचरेत् ।। एकाहात् सिद्धिदा काली सत्यं सत्यं न संशयः । मूलमन्त्रेण रात्रौ च होमं कुर्यात् समाहितः ।। मरीचलाजालवणैस्सार्षपैर्मरणं भवेत् । महा- जनपदे चैव न भयं विद्यते क्वचित् ।। प्रेतपिण्डं समादाय गोलकं कारयेत्ततः । मध्ये बामाङ्कितं कृत्वा शत्रुरूपांश्च पुत्तलीन् । जीवं तत्र विधायैव चिताग्नौ जुहुया- त्ततः । तत्रायुतं जपं कुर्यात् त्रिराद्यं मारणं रिपोः ।। महाज्वाला भवेत्तस्य तद्वत्ता ब्रशलाकया। गुरुद्वारे प्रदद्याच्च सप्ताहान्मारणं रिपोः । प्रत्यङ्गिरा मया प्रोक्ता पठिता पाठिता नरैः। लिखित्वा च करे कण्ठे बाहौ शिरसि धारयेत् ।। मुच्यते सर्वपापेभ्यो नाल्पमृत्युः कथंचन । ग्रहाः ऋक्षास्तथा सिंहा भूता यक्षाश्च राक्षसाः । तस्य पीडां न कुर्वन्ति दिवि भुव्यन्तरिक्षगाः । चतुष्पदेषु दुर्गेषु वनेषू- पवनेषु च ।। श्मशाने दुर्गमे वोरे संग्रामे शत्रुसंकटे । ॐॐॐॐॐ कुं कुंकुं मां सां खां पां लां क्षांॐ ह्रीं ह्रीं ॐ ॐ ह्रीं बां धां मां सां रक्षां कुरु । ॐ ह्रीं ह्रीं ॐ सः हूँ ॐ ॐ क्षौं वां लां धां मां सां रक्षां कुरु । ॐ ॐ हूँ प्लु रक्षां कुरु । ॐ नमो विपरीतप्रत्यङ्गिरायै विद्याराज्ञि त्रैलोक्यवशंकरि तुष्टिपुष्टिकरि सर्वपीड़ा- पहारिणि सर्वापन्नाशिनि सर्वमङ्गलमा ङ्गल्ये शिवे सर्वार्थसाधिनि मोदिनि सर्व- शस्त्राणां भेदिनि क्षोभिर्माण तथा । परमन्त्रतन्त्रयविपचूर्णसर्वप्रयागादीनन्ये वां निवर्तयित्वा यत्कृतं तन्मेऽस्तु कलिपातिनि महिमा मा कारयति अनुमोदयति मनसा वाचा कर्मणा ये देवासुरराजसास्तियंग्योनिसर्वहिसका विरूपकं कुर्वान्त मम मन्त्रतन्त्रयन्त्रविपचूर्ण-सर्वप्रयोगादीनात्महम्नेन यः करोति करिष्यति कार- यिष्यति तान् सर्वानन्येपां निवर्तयित्वा पातय कारय मस्तके स्वाहा।
इति श्रीविपरीतप्रत्यङ्गिरा समाप्तम् । शुभम्भूयात् ।


Vedic Astro Care | वैदिक ज्योतिष शास्त्र

Author & Editor

आचार्य हिमांशु ढौंडियाल

0 टिप्पणियाँ:

एक टिप्पणी भेजें