यस्यास्ति वित्तं स नरः कुलीनः
स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः काञ्चनमाश्रयन्ते ॥
इस कलियुग में धन के महत्व को दर्शाता यह श्लोक एक सीमा तक सटीक बैठता है। क्योंकि यही सब हमें अपने चारों ओर दिखाई देता है। श्लोक का शाब्दिक अर्थ है कि जिसके पास वित्त अर्थात धन होता है, वही कुलीन, पण्डित, सुनने योग्य, उत्तम वक्ता, दर्शनीय और गुणवान समझा जाता है । क्योंकि सर्वे गुणाः काञ्चनमाश्रयन्ते ॥ सभी गुण स्वर्ण अर्थात धन पर ही निर्भर करते हैं।
नमस्कार, वैदिक एस्ट्रो केयर यूट्यूब चैनल पर मैं आचार्य हिमांशु आपका हार्दिक अभिनंदन करता हूँ। हमारे वैदिक सनातन धर्म में कहा गया है कि धनात धर्मं तथा सुखम्
अर्थात, धन से धर्म करने पर ही सुख की प्राप्ति होती है। अतः धन के महत्व को सभी भली प्रकार जानते ही हैं। धन भाग्य एवं दैवीय कृपा से ही प्राप्त होता है। यदि भाग्य मन्द भी हो तो दैवीय कृपा से धन प्राप्त किया जा सकता है, जिसके लिए हमारे वेदों पुराणों में अनेक यज्ञ अनुष्ठान पूजन आदि बतलाए गए हैं। जिनमें एक सुगम अनुष्ठान है स्वर्णाकर्षण भैरव स्तोत्र का। यह एक शीघ्र सिद्धि प्रदान करने वाली, सुगम साधना है।
स्वर्णाकर्षण भैरव स्तोत्र की फलश्रुति के अनुसार, प्रतिदिन
त्रिकाल दस पाठ करने से भैरव भगवान् स्वयं साक्षात, स्वप्न में पधारकर साधक को तत्काल धन संपदा स्वर्ण आदि प्राप्ति के मार्ग प्रदान करते हैं। प्रतिदिन आठ आवृत्ति करने से साधक एक सप्ताह में ही इच्छित फल प्राप्त करता है। नित्य पाठ से सर्व वशीकरण, अचल लक्ष्मी की प्राप्ति, भयनाश, शत्रुनाश, दरिद्र्यनाश तथा अक्षयसौख्य प्राप्त होते हैं। भगवान से प्रार्थना करते हैं कि इस स्तोत्र को सुनने वाले भक्तों की मनोकामनाएं भी अवश्य पूर्ण करें। आइये भाव से स्तोत्र पाठ करें।
नन्दिकेश्वर उवाच
अयं प्रश्नो महाभाग !
लोकानामुपकारकः ॥ ३॥
स्तोत्रं बटुकनाथस्य
दुर्लभं भुवनत्रये ।
सर्वपापप्रशमनं
सर्वसम्पत्-प्रदायकम् ॥ ४॥
दारिद्र्यनाशनं पुंसाम
आपदामपहारकम् ।
अष्टैश्वर्यप्रदं नृणां
पराजय- विनाशनम् ॥ ५ ॥
महाकीर्त्तिप्रदं पुंसाम
असौन्दर्य-विनाशनम् ।
स्वर्णाद्यष्ट महासिद्धि
प्रदायकमनुत्तमम् ॥ ६ ॥
भुक्तिमुक्तिप्रदं स्तोत्रं
भैरवस्य महात्मनः ।
महाभैरवभक्ताया
सेविने निर्धनाय च ॥ ७ ॥
निजभक्ताय वक्तव्य
मन्यथा शापमाप्नुयात्।
स्तोत्रमेतद् भैरवस्य
ब्रह्म-विष्णु-शिवात्मकम् ॥ ८ ॥
शृणुष्व रुचितो ब्राह्मन्!
सर्वकाम-प्रदायकम् ।
विनियोगः-
ॐ अस्य श्रीस्वर्णाकर्षण भैरव-स्तोत्रमन्त्रस्य, ब्रह्मा ऋषिः, अनुष्टुप्छन्दः, स्वर्णाकर्षणभैरव-परमात्मा देवता, ह्रीं बीजं, क्लीं शक्तिः, सः कीलकं, मम सर्वकामसिद्धयर्थे, पाठे विनियोगः ।
ऋष्यादिन्यासः-
ब्रह्मर्षये नमः ( शिरसि ),
अनुष्टुप्छन्दसे नमः (मुखे ),
स्वर्णाकर्षण भैरव परमात्मने नमः (हृदये),
ह्रीं बीजाय नमः (गुह्ये),
क्लीं शक्तये नमः (पादयो),
सः कीलकाय नमः (नाभौ),
विनियोगाय नमः (सर्वांगे ),
करन्यास-
ह्रां - अंगुष्ठाभ्यां नमः ।
ह्रीं - तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं — कनिष्ठिकाभ्यां नमः ।
ह्रः - करतल - करपृष्ठाभ्यां नमः ।
हृदयादिन्यासः -
ह्रां - हृदयाय नमः ।
ह्रीं - शिरसे स्वाहा ।
ह्रूं - शिखायै वषट् ।
ह्रैं - कवचाय हुम् ।
ह्रौं - नेत्रत्रयाय वौषट् ।
ह्रः - अस्त्राय फट् ।
ध्यानम्—
पारिजातद्रुकान्तारे,
स्थिते माणिक्य-मण्डपे ।
सिंहासनगतं वन्दे,
भैरवं स्वर्णदायकम् ॥
गाङ्गेयपात्रं डमरुं त्रिशूलं,
वरं करैः सन्दधतं त्रिनेत्रम् ।
देव्या युतं तप्तसुवर्णवर्ण,
स्वर्णाकृषं भैरवमाश्रयामि॥
मूल स्तोत्र-पाठ
ॐ नमस्ते भैरवाय ब्रह्मविष्णु-शिवात्मने ।
नमस्त्रैलोक्यवन्द्याय वरदाय वरात्मने ॥ १॥
रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।
दिव्यमाल्य-विभूषाय नमस्ते दिव्यमूर्तये ॥ २ ॥
नमस्तेऽनेकहस्ताय अनेकशिरसे नमः ।
नमस्तेऽनेकनेत्राय अनेकविभवे नमः ॥ ३ ॥
नमस्तेऽनेककण्ठाय अनेकांसाय ते नमः ।
नमस्तेऽनेकपावय नमस्ते दिव्यतेजसे ॥ ४ ॥
अनेकायुधयुक्ताय अनेक सुरसेविने।
अनेक गुणयुक्ताय महादेवाय ते नमः ॥ ५ ॥
नमो दारिद्र्यकालाय महासम्पत्प्रदायिने ।
श्रीभैरवी-संयुक्ताय त्रिलोकेशाय ते नमः ॥ ६ ॥
दिगम्बर नमस्तुभ्यं दिव्याङ्गाय नमो नमः ।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ ७ ॥
सर्वज्ञाय नमस्तुभयं नमस्ते दिव्यचक्षुषे ।
अजिताय नमस्तुभ्यं जितामित्राय ते नमः ॥ ८ ॥
नमस्ते रुद्ररूपाय महावीराय ते नमः ।
नमोऽस्त्वनन्तवीर्याय महाघोराय ते नमः ॥ ९॥
नमस्ते घोरघोराय विश्वघोराय ते नमः ।
नम उग्राय शान्ताय भक्तानां शान्तिदायिने ॥ १० ॥
गुरवे सर्वलोकानां नमः प्रणवरूपिणे ।
नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ॥ ११ ॥
नमस्ते कामराजाय योषित्कामाय ते नमः ।
दीर्घमायास्वरूपाय महामायाय ते नमः ॥ १२ ॥
सृष्टिमाया स्वरूपाय विसर्गसमयाय ते ।
सुरलोक-सुपूज्याय आपदुद्धारणाय च ॥ १३ ॥
नमो नमो भैरवाय महादारिद्र्यनाशिने ।
उन्मूलने कर्मठाय अलक्ष्म्याः सर्वदा नमः ॥ १४ ॥
नमोऽजामलबद्धाय नमो लोकेश्वराय ते।
स्वर्णाकर्षणशीलाय भैरवाय नमो नमः ॥ १५ ॥
मम दारिद्र्य-विद्वेषणाय लक्ष्याय ते नमः ।
नमो लोकत्रयेशाय स्वानन्द निहिताय ते ॥ १६ ॥
नमः श्री बीजरूपाय सर्वकामप्रदायिने ।
नमो महाभैरवाय श्रीभैरव नमो नमः ॥ १७ ॥
धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ।
नमः प्रसन्नरूपाय आदिदेवाय ते नमः ॥ १८ ॥
नमस्ते मन्त्ररूपाय नमस्ते रत्नरूपिणे ।
नमस्ते स्वर्णरूपाय स्वर्णाय नमो नमः ॥ १९ ॥
नमः सुवर्णवर्णाय महापुण्याय ते नमः ।
नमः शुद्धाय बुद्धाय नमः संसारतारिणे ॥ २० ॥
नमो देवाय गुह्याय प्रचलाय नमो नमः ।
नमस्ते बालरूपाय परेषां बलनाशिने ॥ २१॥
नमस्ते स्वर्णसंस्थाय नमो भूतलवासिने ।
नमः पातालवासाय अनाधाराय ते नमः ॥ २२ ॥
नमो नमस्ते शान्ताय अनन्ताय नमो नमः ।
द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ॥ २३॥
नमोऽणिमादि-सिद्धाय स्वर्णहस्ताय ते नमः ।
पूर्णचन्द्र-प्रतीकाश वदनाम्भोज शोभिने । ॥ २४ ॥
नमस्तेऽस्तु स्वरूपाय स्वर्णालङ्कारशोभिने ।
नमः स्वर्णकर्षणाय स्वर्णाभाय नमो नमः ॥ २५ ॥
नमस्ते स्वर्णकण्ठाय स्वर्णाभाम्बरधारिणे ।
स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ॥ २६ ॥
नमः स्वर्णाभपादाय स्वर्णकाञ्चीसुशोभिने ।
नमस्ते स्वर्णजङ्घाय भक्तकामदुघात्मने ॥ २७ ॥
नमस्ते स्वर्णभक्ताय कल्पवृक्षस्वरूपिणे ।
चिन्तामणिस्वरूपाय नमो ब्रह्मादि-सेविने ॥ २८ ॥
कल्पद्रुमाध:संस्थाय बहुस्वर्ण-प्रदायिने ।
नमो हेमाकर्षणाय भैरवाय नमो नमः ॥ २९ ॥
स्तवेनानेन सन्तुष्टो भव लोकेश भैरव ।
पश्य मांं करुणा दृष्ट्या शरणागतवत्सल ॥ ३० ॥
फलश्रुतिः
श्रीमहाभैरवस्येदं स्तोत्रमुक्तं सुदुर्लभम्।
मन्त्रात्मकं महापुण्यं सर्वैश्वर्य- -प्रदायकम् ॥ ३१ ॥
यः पठेन्नित्यमेकाग्रं पातकैः स प्रमुच्यते ।
लभते महतीं लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ ३२ ॥
चिन्तामणिमवाप्नोति धेनुं कल्पतरुं ध्रुवम्।
स्वर्णराशिमवाप्नोति शीघ्रमेव स मानवः ॥ ३३ ॥
त्रिसन्ध्यं यः पठेत् स्तोत्रं दशावृत्त्या नरोत्तमः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद् भूत्वा जगद्गुरुः ॥ ३४ ॥
स्वर्णराशिं ददात्यस्मै तत्क्षणं नास्ति संशयः ।
अष्टावृत्त्या पठेद् यस्तु सन्ध्यायां वा नरोत्तमः ॥ ३५ ॥
लभते सकलान् कामान् सप्ताहान्नात्र संशयः ।
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ॥ ३६ ॥
लोकत्रयं वशीकुर्यादचलां श्रियमाप्नुयात् ।
न भयं विद्यते क्वापि विषभूतादि-सम्भवम् ॥ ३७ ॥
प्रियन्ते शत्रवस्तस्य ह्यलक्ष्मी नाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ ३८ ॥
अष्टपञ्चाद् वर्णाढ्यो मन्त्रराजः प्रकीर्तितः । दारिद्र्यदुःखशमनः स्वर्णाकर्षण-कारकः ॥ ३९ ॥
य एनं सञ्जपेद् धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरव-सायुज्यं सोऽन्तकाले लभेद् ध्रुवम् ॥ ४० ॥
इति श्रीरुद्रयामले तन्त्रे ईश्वर- दत्तात्रेयसंवादे
स्वर्णाकर्षण भैरवस्तोत्रं सम्पूर्णम् !
0 टिप्पणियाँ:
एक टिप्पणी भेजें